वांछित मन्त्र चुनें

राजा॑ समु॒द्रं न॒द्यो॒३॒॑ वि गा॑हते॒ऽपामू॒र्मिं स॑चते॒ सिन्धु॑षु श्रि॒तः । अध्य॑स्था॒त्सानु॒ पव॑मानो अ॒व्ययं॒ नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वः ॥

अंग्रेज़ी लिप्यंतरण

rājā samudraṁ nadyo vi gāhate pām ūrmiṁ sacate sindhuṣu śritaḥ | adhy asthāt sānu pavamāno avyayaṁ nābhā pṛthivyā dharuṇo maho divaḥ ||

पद पाठ

राजा॑ । स॒मु॒द्रम् । न॒द्यः॑ । वि । गा॒ह॒ते॒ । अ॒पाम् । ऊ॒र्मिम् । स॒च॒ते॒ । सिन्धु॑षु । श्रि॒तः । अधि॑ । अ॒स्था॒ट् सानु॑ । पव॑मानः । अ॒व्यय॑म् । नाभा॑ । पृ॒थि॒व्याः । ध॒रुणः॑ । म॒हः । दि॒वः ॥ ९.८६.८

ऋग्वेद » मण्डल:9» सूक्त:86» मन्त्र:8 | अष्टक:7» अध्याय:3» वर्ग:13» मन्त्र:3 | मण्डल:9» अनुवाक:5» मन्त्र:8


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - जो परमात्मा (पृथिव्याः) पृथिवीलोक और (महो दिवः) इस बड़े द्युलोक का (धरुणः) आधार है। (पवमानः) सबको पवित्र करनेवाला परमात्मा (नद्यः) सब समृद्धिओं को और (अव्ययं समुद्रम्) इस अविनाशी अन्तरिक्ष को (वि गाहते) विगाहन करता है। (अपामूर्मिम्) जल की लहरें-रूप नदियों को (सिन्धुषु) महासागरों में (सचते) संगत करता है। (श्रितः) वह सबका आश्रय होकर (अध्यस्थात्) विराजमान हो रहा है और (सानु नाभा) उच्च से उच्च शिखरों के मध्य में भी विराजमान है ॥८॥
भावार्थभाषाः - यद्यपि स्थूल दृष्टि से ये पृथिव्यादिलोक अन्य पदार्थों के अधिष्ठान प्रतीत होते हैं, तथापि सर्वाधिष्ठान एक मात्र परमात्मा ही है, क्योंकि सब लोक-लोकान्तरों की रचना करनेवाला और नदियों को सागरों के साथ संगत करनेवाला और ग्रह-उपग्रहों को सूर्य्यादि बड़ी-बड़ी ज्योतियों में संगत करनेवाला एकमात्र परमात्मा ही सबका अधिष्ठान है, कोई अन्य वस्तु नहीं ॥८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - यः परमात्मा (पृथिव्याः) पृथिवीलोकस्य अपि च (महः, दिवः) अस्य महतो द्युलोकस्य (धरुणः) आधारोऽस्ति। (पवमानः) सर्वं पवित्रयन् परमात्मा (नद्यः) सर्वाः समृद्धीः अपि च (अव्ययं, समुद्रं) अविनाशिमन्तरिक्षं (वि, गाहते) विगाहनं करोति (अपां, ऊर्मिं) जलतरङ्गरूपनदीः (सिन्धुषु) महासागरेषु (सचते) सङ्गताः करोति (श्रितः) स सर्वस्याश्रयो भूत्वा (अधि, अस्थात्) विराजते। अपि च (सानु, नाभा) अत्युच्चशिखराणामपि मध्ये विराजते ॥८॥